वांछित मन्त्र चुनें

ऊ॒र्ध्वो ग॑न्ध॒र्वो अधि॒ नाके॑ अस्थात्प्र॒त्यङ्चि॒त्रा बिभ्र॑द॒स्यायु॑धानि । वसा॑नो॒ अत्कं॑ सुर॒भिं दृ॒शे कं स्व१॒॑र्ण नाम॑ जनत प्रि॒याणि॑ ॥

अंग्रेज़ी लिप्यंतरण

ūrdhvo gandharvo adhi nāke asthāt pratyaṅ citrā bibhrad asyāyudhāni | vasāno atkaṁ surabhiṁ dṛśe kaṁ svar ṇa nāma janata priyāṇi ||

पद पाठ

ऊ॒र्ध्वः । ग॒न्ध॒र्वः । अधि॑ । नाके॑ । अ॒स्था॒त् । प्र॒त्यङ् । चि॒त्रा । बिभ्र॑त् । अ॒स्य॒ । आयु॑धानि । वसा॑नः । अत्क॑म् । सु॒ऽर॒भिम् । दृ॒शे । कम् । स्वः॑ । ण । नाम॑ । ज॒न॒त॒ । प्रि॒याणि॑ ॥ १०.१२३.७

ऋग्वेद » मण्डल:10» सूक्त:123» मन्त्र:7 | अष्टक:8» अध्याय:7» वर्ग:8» मन्त्र:2 | मण्डल:10» अनुवाक:10» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (गन्धर्वः) पृथिवी आदि लोकों का धारणकर्त्ता परमात्मा (ऊर्ध्वः) उत्कृष्ट (नाके-अधि) मोक्ष में (अस्थात्) स्वरूप से विराजमान है (अस्य चित्रा-आयुधानि) यह विचित्र शस्त्रों को (बिभ्रत्) धारण करता है (सुरभिम् अत्कं वसानः) सुगन्धयुक्त वज्र को आच्छादित करता हुआ (कं दृशे) सुख को दिखाने के लिये है (प्रियाणि स्वः-न नाम) रुचिकर सुखविशेष सम्प्रति अवश्य (जनत) उत्पन्न करता है ॥७॥
भावार्थभाषाः - परमात्मा पृथिवी आदि लोकों को धारण कर रहा है, स्वरूपतः मोक्षधाम साक्षात् होता है, इसके शस्त्र विचित्र हैं, सुगन्धयुक्त मीठे वज्र को गुप्तरूप में रखता है, सुख दिखाने के लिये उत्पन्न करता है ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (गन्धर्वः) गाः पृथिव्यादीन् लोकान् धरति यः स परमात्मा (ऊर्ध्वः) उत्कृष्टः (नाके-अधि) मोक्षे (अस्थात्) स्वरूपस्तिष्ठति-विराजते (अस्य चित्रा-आयुधानि) अयम् “प्रथमास्थाने षष्ठी व्यत्ययेन” परमात्मा विचित्राणि शस्त्राणि (बिभ्रत्) बिभर्ति-धारयति (सुरभिम्-अत्कम्) सुगन्धं वज्रमस्ति ‘अत्कं वज्रनाम’ [निघ० २।२०] (वसानः) आच्छादयन् (कं दृशे) सुखं द्रष्टुं (प्रियाणि स्वः-न नाम) प्रियाणि सुखानि सम्प्रति (जनत) जनयति ॥७॥